On the Moon's Cusps
(Chapter 10)
Verse 1
उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोरपि | भागैर्द्वादशभिः पश्चाद् दृश्यः प्राग् यात्यदृश्यताम् १
Verse 2
रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः | एकराशौ रवीन्द्रोश्च कार्या विवरलिप्तिकाः २
Verse 3
तन्नाडिकाहते भुक्ती रवीन्द्रोः षष्टिभाजिते | तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः ३
Verse 4
एवं यावत् स्थिरीभूता रवीन्द्वोरन्तरासवः | तैः प्राणैरस्तमेतीन्दुः शुक्लेऽर्कास्तमयात् परम् ४
Verse 5
भगणार्धं रवेर्दत्वा कार्यास्तद्विवरासवः | तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ५
Verse 6
अर्केन्द्रोः क्रान्तिविश्लेषो दिक्साम्ये युतिरन्यथा | तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा ६
Verse 7
मध्याह्नेन्दुप्रभाकर्णसंङ्गणा यदि सोत्तरा | तदाऽर्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा ७
Verse 8
शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्गुखः | कोटिः शङ्कस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ८
Verse 9
सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः | चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम् ६
Verse 10
दत्वाऽर्कसंञ्जितं बिन्दु ततो बाहं स्वदिङ्गुखम् | ततः पश्चान्मुखीं कोटिं कर्णं कोट्यग्रमध्यगम् १०
Verse 11
कोटिकर्णयुताद्विन्दोर्बिम्बं तात्कालिकं लिखेत् | कर्णसूत्रेण दिक्सिद्धिं प्रथमं परिकल्पयेत् ११
Verse 12
शुक्लं कर्णेन तद्विम्बयोगादन्तर्मुखं नयेत् | शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् १२
Verse 13
तन्मध्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग् लिखेद्धनुः | प्राग् बिम्बं यादृगेव स्यात् तादृक् तत्र दिने शशी १३
Verse 14
कोट्या दिक्साधनात् तिर्यक् सूत्रान्ते शृङ्गमुन्नतम् | दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साऽऽकृतिः १४
Verse 15
कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथाऽसितम् | दद्याद् वामं भुजं तत्र पश्चिमं मण्डलं विधोः १५