The True Motions of the Planets
(Chapter 2)
Verse 1
अदृश्यरूपाः कालस्य मूर्त्तयो भगणाश्रिताः | शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः १
Verse 2
तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः | प्राक् पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्गुखम् २
Verse 3
प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत् | पूर्वापरापकृष्टास्ते गतिं यान्ति पृथग्विधाम् ३
Verse 4
ग्रहात् प्राग्भगणार्धस्थः प्राङ्गुखं कर्षति ग्रहम् | उच्चसंज्ञोऽपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ४
Verse 5
स्वोच्चापकृष्टा भगणैः प्राङ्गुखं यान्ति यद् ग्रहाः | तत् तेषु धनमित्युक्तं फलं पश्चान्मुखेष्वृणम् ५
Verse 6
दक्षिणोत्तरतोऽप्येवं पातो राहः स्वरंहसा | विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ६
Verse 7
उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः | ग्रहं प्राग्भगणार्धस्थो याम्यायामपकर्षति ७
Verse 8
बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः | तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ८
Verse 9
महत्त्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यते | मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते ६
Verse 10
भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः | दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः १०
Verse 11
अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत् | आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहताः ११
Verse 12
वक्राऽतिवक्रा विकला मन्दा मन्दतरा समा | तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः १२
Verse 13
तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरासमा | ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा १३
Verse 14
तत्तद्गतिवशान्नित्यं यथा दृक् तुल्यतां ग्रहाः | प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणमादरात् १४
Verse 15
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते | तत्तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम् १५
Verse 16
आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः | खण्डकाः स्युश्चतुर्विंशज्ज्यार्धपिण्डाः क्रमादमी १६
Verse 17
तत्त्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तवः | खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः १७
Verse 18
शून्यलोचनपञ्चैकाश्छिद्ररूपमुनीन्दवः | वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः १८
Verse 19
मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः | पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः १६
Verse 20
रन्ध्रपञ्चाष्टकयमा वस्वद्रयङ्कयमास्तथा | कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः २०
Verse 21
षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्मिवह्नयः | यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः २१
Verse 22
रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः | प्रोज्झयोत्क्रमेण व्यासार्धादुत्क्रमज्यार्धपिण्डकाः २२
Verse 23
मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः | द्वयष्टका रूपषड्दस्राः सागरार्थहुताशनाः २३
Verse 24
खर्तुवेदा नवाद्रयर्था दिङ्नागारूयर्थकुञ्जराः | नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः २४
Verse 25
शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः | नवरूपमहीभ्रेका गजैकाङ्कनिशाकराः २५
Verse 26
गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः | वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः २६
Verse 27
नवाष्टनवनेत्राणि पावकैकयमाग्नयः | गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः २७
Verse 28
परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः | तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते २८
Verse 29
ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च | शेषं केन्द्रं पदं तस्माद् भुजज्या कोटिरेव च २६
Verse 30
गताद् भुजज्या विषमे गम्यात् कोटिः पदे भवेत् | यग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत् ३०
Verse 31
लिप्तास्तत्त्वयमैर्भक्ता लब्धं ज्यापिण्डकं गतम् | गतगम्यान्तराभ्यस्तं विभजेत् तत्त्वलोचनैः ३१
Verse 32
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके | स्यात् क्रमज्याविधिरयमुत्क्रमज्यास्वपि स्मृतः ३२
Verse 33
ज्यां प्रोज्झय शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम् | सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते ३३
Verse 34
रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः | युग्मान्ते विषमान्ते च नखलिप्तोनितास्तयोः ३४
Verse 35
युग्मान्तेऽर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः | ओजे द्वयगा वसुयमा रदा रुद्रा गजाब्धयः ३५
Verse 36
कुजादीनामतः शैघ्रया युग्मान्तेऽर्थाग्निदस्त्रकाः | गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोऽग्नयः ३६
Verse 37
ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः | खर्तुदस्स्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः ३७
Verse 38
ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता | युग्मवृत्ते धनर्णं स्यादोजादूनेऽधिके स्फुटम् ३८
Verse 39
तद्गुणे भुजकोटिज्ये भगणांशविभाजिते | तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ३६
Verse 40
शैघ्रयं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम् | संशोध्यं तु त्रिजीवायां कर्त्यादौ कोटिजं फलम् ४०
Verse 41
तद्वाहुफलवर्णैक्यान्मूलं कर्णश्चलाभिधः | त्रिज्याभ्यस्तं भुजफल चलकर्णविभाजितम् ४१
Verse 42
लब्धस्य चापं लिप्तादिफलं शैघ्रयमिदं स्मृतम् | एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि ४२
Verse 43
मान्दं कर्मैकमर्केन्द्रोौमादीनामथोच्यते | शैघ्रयं मान्दं पुनर्मान्दं शैघ्रयं चत्वार्यनुक्रमात् ४३
Verse 44
मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा | मध्यग्रहे मन्दफलं सकलं शैघ्रयमेव च ४४
Verse 45
अजादिकेन्द्रे सर्वेषां शैघ्रये मान्दे च कर्मणि | धनं ग्रहाणां लिप्तादि तुलादावृणमेव च ४५
Verse 46
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता | भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेऽर्कवत् ४६
Verse 47
स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः | दोर्ज्यन्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ४७
Verse 48
ग्रहभुक्तेः फलं कार्यं ग्रहवन्मन्दकर्मणि | दोर्ज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः ४८
Verse 49
स्वमन्दपरिधिक्षुणा भगणांशोद्धृताः कलाः | कर्त्यादौ तु धनं तत्र मकरादावृणं स्मृतम् ४६
Verse 50
मन्दस्फुटीकृतां भुक्तिं प्रोज्झय शीघ्रोच्चभुक्तितः | तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः ५०
Verse 51
चलकर्णहतं भुक्तौ कर्णे त्रिज्याऽधिके धनम् | ऋणमूनेऽधिके प्रोज्झय शेषं वक्रगतिर्भवेत् ५१
Verse 52
दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः | सव्येतराकृष्टतनुर्भवेद् वक्रगतिस्तदा ५२
Verse 53
कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टिभिः | शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः ५३
Verse 54
भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशोधितैः | अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम् ५४
Verse 55
महत्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ | अष्टमे जीवशशिजौ नवमे तु शनैश्चरः ५५
Verse 56
कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम् | वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ५६
Verse 57
स्वपातोनाद् ग्रहाजीवा शीघ्राद्धृगुजसौम्ययोः | विक्षेपघ्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः ५७
Verse 58
विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता | दिग्भेदे वियुता स्पष्टा भास्करस्य यथाऽऽगता ५८
Verse 59
ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः | चक्रासवो लब्धयुताः स्वाहोरात्रासवः स्मृताः ५६
Verse 60
क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्वा तत्रोत्क्रमज्यया | हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम् ६०
Verse 61
क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता | त्रिज्यागुणाऽहोरात्रार्धकर्णाप्ता चरजाऽसवः ६१
Verse 62
तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक् स्थिते | स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ६२
Verse 63
याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे | विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वके ६३
Verse 64
भभोगोऽष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः | ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम् ६४
Verse 65
रवीन्दुयोगलिप्ताश्च योगा भभोगभाजिताः | गता गम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः ६५
Verse 66
अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः | गता गम्याश्च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः ६६
Verse 67
ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् | किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः ६७
Verse 68
बवादीनि ततः सप्त चराख्यकरणानि च | मासेऽष्टकृत्व एकैकं करणानां प्रवर्तते ६८
Verse 69
तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् | एषा स्फुटगतिः प्रोक्ता सूर्यादीनां खचारिणाम् ६६