On Questions of Direction, Place, and Time
(Chapter 3)
Verse 1
शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे | तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् १
Verse 2
तन्मध्ये स्थापयेच्छ्ङ्क कल्पनाद्वादशाङ्गुलम् | तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः २
Verse 3
तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ | तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा ३
Verse 4
याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा | दिङ्गध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि ४
Verse 5
चतुरस्रं बहिः कुर्यात् सूत्रैर्मध्याद्विनिर्गतैः | भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता ५
Verse 6
प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डले | उन्मण्डले च विषुवन्मण्डले परिकीर्त्यते ६
Verse 7
रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा | इष्टच्छायाविषुवतोर्मध्यमग्राऽभिधीयते ७
Verse 8
शङ्कुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गतः | प्रोज्झय शङ्ककृतिं मूलं छाया शङ्कुर्विपर्ययात् ८
Verse 9
त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बते | तद्गुणाद् भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते ६
Verse 10
तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः | तत्संस्कृताद् ग्रहात् क्रान्तिच्छायाचरदलादिकम् १०
Verse 11
स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये | प्राक् चक्रं चलितं हीने छायार्कात् करणागते ११
Verse 12
अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाऽधिके | एवं विषुवती छायास्वदेशे या दिनार्धजा १२
Verse 13
दक्षिणोत्तररेखायां सा तत्र विषुवत् प्रभा | शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते १३
Verse 14
लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा | मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका १४
Verse 15
स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे | उत्तराश्चोत्त्रे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः १५
Verse 16
दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः | ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झय त्रिज्याकृतेः पदम् १६
Verse 17
लम्बज्याऽर्कगुणाऽक्षज्या विषुवद्भाऽथ लम्बया | स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा १७
Verse 18
दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता | परमापक्रमज्याप्ता चापं मेषादिगो रविः १८
Verse 19
कर्त्यादौ प्रोज्झय चक्रार्धात् तुलादौ भार्धसंयुतात् | मृगादौ प्रोज्झय भगणान्मध्याह्नेऽर्कः स्फुटो भवेत् १६
Verse 20
तन्मान्दमसकृद् वामं फलं मध्यो दिवाकरः | स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा २०
Verse 21
शेषं नतांशाः सूर्यस्य तद्वाहुज्या च कोटिजा | शङ्कमानाङ्गलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् २१
Verse 22
कोटिज्यया विभज्याप्ते छायाकर्णावहर्दले | क्रान्तिज्या विषुवत्कर्णगुणाऽऽप्ता शङ्कजीवया २२
Verse 23
अर्काग्रा सेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका | विषुवद्भायुताऽर्काग्रा याम्ये स्यादुत्तरो भुजः २३
Verse 24
विषुवत्यां विशोध्योदग्गोले स्याद् बाहुरुत्तरः | विपर्ययाद् भुजो याम्यो भवेत् प्राच्यपरान्तरे २४
Verse 25
माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता | लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे २५
Verse 26
क्रान्तिज्याप्ते तु तौ कर्णो सममण्डलगे रवौ | सौम्याक्षोना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः २६
Verse 27
विषुवच्छाययाऽभ्यस्तः कर्णो मध्याग्रयोद्धृतः | स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताऽग्रमौर्विका २७
Verse 28
स्वेष्टकर्णहता भक्ता त्रिज्ययाऽग्राऽङ्गुलादिका | त्रिज्यावर्गार्धतोऽग्रज्यावर्गोनाद् द्वादशाहतात् २८
Verse 29
पुनर्द्वादशनिघ्नाच्च लभ्यते यत् फलं बुधैः | शङ्कवर्गार्धसंयुक्तविषुवद्वर्गभाजितात् २६
Verse 30
तदेव करणीनाम तां पृथक् स्थापयेद् बुधः | अर्कघ्नी विषुवच्छायाऽग्रज्यया गुणिता तथा ३०
Verse 31
भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम् | फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः ३१
Verse 32
याम्ययोर्विदिशोः शङ्करेवं याम्योत्तरे रवौ | परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः ३२
Verse 33
तत्त्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याऽभिधीयते | स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते ३३
Verse 34
छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः | त्रिज्योदजायुक्ता याम्यायां तद्विवर्जिता ३४
Verse 35
अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्धसङ्गुणा | त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः ३५
Verse 36
त्रिभज्यया भवेच्छङ्कस्तद्वर्गं परिशोधयेत् | त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ३६
Verse 37
अभीष्टच्छाययाऽभ्यस्ता त्रिज्या तत्कर्णभाजिता | दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम् ३७
Verse 38
शङ्कः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः | छेदः स त्रिज्ययाऽभ्यस्तः स्वाहोरात्रार्धभाजितः ३८
Verse 39
उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् | उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः ३६
Verse 40
इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता | क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता ४०
Verse 41
तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः | इष्टेऽह्नि मध्ये प्राक् पश्चाद् धृते बाहुत्रयान्तरे ४१
Verse 42
मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः | त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ४२
Verse 43
क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक् | स्वाधोऽधः परिशोध्याऽथ मेषाल्लङ्कोदयासवः ४३
Verse 44
खागाष्टयोऽर्थगोऽगैकाः शरत्र्यङ्कहिमांशवः | स्वदेशचरखण्डोना भवन्तीष्टोदयासवः ४४
Verse 45
व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः | उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ४५
Verse 46
गतभोग्यासवः कार्या भास्करादिष्टकालिकात् | स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः ४६
Verse 47
अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् | तद्वत् तदेष्यलग्नासूनेवं यातान् तथोत्क्रमात् ४७
Verse 48
शेषं चेत् त्रिंशताऽभ्यस्तमशुद्धेन विभाजितम् | भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा ४८
Verse 49
प्राक्पश्चान्नतनाडीभिस्तस्माल्लङ्कोदयासुभिः | भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ४६
Verse 50
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च | सम्पीड्यान्तरलग्नासूनेवं स्यात् कालसाधनम् ५०
Verse 51
सूर्यादूने निशाशेषे लग्नेऽर्कादधिके दिवा | भचक्रार्धयुताद् भानोरधिकेऽस्तमयात् परम् ५१