On Lunar Eclipses
(Chapter 4)
Verse 1
सार्धानि षट् सहस्राणि योजनानि विवस्वतः | विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम् १
Verse 2
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ | रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः २
Verse 3
शशाङ्ककक्षागुणितो भाजितो वाऽर्ककक्षया | विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिकाः ३
Verse 4
स्फुटेन्दुभुक्तिर्भूव्यास गुणिता मध्ययोद्धृता | लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ४
Verse 5
मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् | विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ५
Verse 6
भानोर्भार्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा | शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ६
Verse 7
तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ | सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिभिः समौ ७
Verse 8
सतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ | समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा ८
Verse 9
छादको भास्करस्येन्दुरधःस्थो घनवद् भवेत् | भूच्छायां प्राङ्गुखश्चन्द्रो विशत्यस्य भवेदसौ ६
Verse 10
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः | योगार्धात् प्रोज्य यच्छेषं तावच्छ्न्नं तदुच्यते १०
Verse 11
ग्राह्यमानाधिके तस्मिन् सकलं न्यूनमन्यथा | योगार्धादधिके न स्याद् विक्षेपे ग्राससम्भवः ११
Verse 12
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् | विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे १२
Verse 13
षष्टया सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते | स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः १३
Verse 14
स्थित्यर्धनाडिकाऽभ्यस्ता गतयः षष्टिभाजिताः | लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः १४
Verse 15
तद्विक्षेपैः स्थितिदलं विमर्दार्धं तथाऽसकृत् | संसाध्यमन्यथा पाते तल्लिप्तादि फलं स्वकम् १५
Verse 16
स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् | स्थित्यर्धनाडिकाहीने स्पर्शो मोक्षस्तु संयुते १६
Verse 17
तद्वदेव विमर्दार्धनाडिका हीनसंयुते | निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे १७
Verse 18
इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः | भुक्त्यन्तरं समाहन्यात् षष्टयाप्ताः कोटिलिप्तिकाः १८
Verse 19
भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसङ्गुणाः | स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृताः १६
Verse 20
क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् | मानयोगार्धतः प्रोज्झय ग्रासस्तात्कालिको भवेत् २०
Verse 21
मध्यग्रहणतश्चोर्ध्वमिष्टनाडीर्विशोधयेत् | स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके २१
Verse 22
ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः | तद्वर्गात् प्रोज्झय तत्कालविक्षेपस्य कृतिं पदम् २२
Verse 23
कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हताः | मध्येन लिप्तास्तन्नाड्यः स्थितिवद्द्मासनाडिकाः २३
Verse 24
नतज्याऽक्षज्ययाऽभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् | वलनांशाः सौम्ययाम्याः पूर्वापरकपालयोः २४
Verse 25
राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः | भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता २५
Verse 26
सोन्नतं दिनमध्यर्धं दिनार्धाप्तं फलेन तु | छिन्द्याद् विक्षेपमानानि तान्येषामङ्गुलानि तु २६