On Solar Eclipses
(Chapter 5)
Verse 1
मध्यलग्नसमे भानौ हरिजस्य न सम्भवः | अक्षोदङ्गध्यभक्रान्तिसाम्ये नावनतेरपि १
Verse 2
देशकालविशेषेण यथाऽवनतिसम्भवः | लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते २
Verse 3
लग्नं पर्वान्तनाडीनां कुर्य्यात् स्वैरुदयासुभिः | तज्ज्याऽन्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ३
Verse 4
तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् | तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा ४
Verse 5
शेषं नतांशास्तन्मौवी मध्यज्या साऽभिधीयते | मध्योदयज्ययाऽभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ५
Verse 6
मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् | तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कः स दृग्गतिः ६
Verse 7
नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती | एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ७
Verse 8
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता | रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद् घटिकादिकम् ८
Verse 9
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् | धनमूनेऽसकृत् कर्म यावत् सर्वं स्थिरीभवेत् ६
Verse 10
दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः | तिथिघ्नत्रिज्यया भक्तो लब्धं साऽवनतिर्भवेत् १०
Verse 11
दृक्क्षेपात् सप्ततिहृताद् भवेद्वाऽवनतिः फलम् | अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ११
Verse 12
मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा | सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषिताऽन्यथा १२
Verse 13
तथा स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम् | प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् १३
Verse 14
स्थित्यर्थोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः | ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् १४
Verse 15
प्राक्कपालेऽधिकं मध्याद् भवेत् प्राग्रहणं यदि | मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः १५
Verse 16
तदा मोक्षस्थितिदले देयं प्राग्रहणे तथा | हरिजान्तरकं शोध्यं यत्रैतत् स्याद् विपर्ययः १६
Verse 17
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता | स्वे स्वे स्थितिदले योज्या विमर्दार्धेऽपि चोक्तवत् १७