On Projection of Eclipses
(Chapter 6)
Verse 1
न छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः | ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानमुत्तमम् १
Verse 2
सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् | सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम् २
Verse 3
ग्राह्यग्राह्यकयोगार्धसम्मितेन द्वितीयकम् | मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम् ३
Verse 4
याम्योत्तराप्राच्यपरासाधनं पूर्ववत् दिशाम् | प्रागिन्दोर्ग्रहणं पश्चान्मोक्षोऽर्कस्य विपर्यात् ४
Verse 5
यथादिशं प्राग्रहणं वलनं हिमदीधितेः | मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवेः ५
Verse 6
वलनाग्रान्नयेन्मध्यं सूत्रं यद् यत्र संस्पृशेत् | तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ ६
Verse 7
विक्षेपाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् | तद्ग्राह्यबिन्दुसंस्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत् ७
Verse 8
नित्यशोऽर्कस्य विक्षेपाः परिलेखे यथादिशम् | विपरीताः शशाङ्कस्य तद्वशादथ मध्यमम् ८
Verse 9
वलनं प्राङ्गुखं देयं तद्विक्षेपैकता यदि | भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात् ६
Verse 10
वलनाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् | मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् १०
Verse 11
विक्षेपाग्राल्लिखेद् वृत्तं ग्राहकार्धेन तेन यत् | ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ११
Verse 12
छेद्यकं लिखता भूमौ फलके वा विपश्चिता | विपर्ययो दिशां कार्यः पूर्वापरकपालयोः १२
Verse 13
स्वच्छत्वाद्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते | लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः १३
Verse 14
स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः | तत्र प्राङ्गध्ययोर्मध्ये तथा मौक्षिकमध्ययोः १४
Verse 15
लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम् | प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् १५
Verse 16
तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा | स पन्था ग्राहकस्योक्तो येनासौ सम्प्रयास्यति १६
Verse 17
ग्राह्यग्राहकयोगार्धात् प्रोज्झयेष्टग्रासमागतम् | अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः १७
Verse 18
तयोर्मार्गोन्मुखीं दद्याद् ग्रासतः प्राग् ग्रहाश्रिताम् | विमुञ्चतो मोक्षदिशि ग्राहकाध्वानमेव सा १८
Verse 19
स्पृशेद्यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत् | तेन ग्राह्यं यदाक्रान्तं तत् तमोग्रस्तमादिशेत् १६
Verse 20
मानान्तरार्धेन मितां शलाकां ग्रासदिङ्गुरखीम् | निमीलनाख्यां दद्यात् सा तन्मार्गे यत्र संस्पृशेत् २०
Verse 21
ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत् | तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम् २१
Verse 22
एवमुन्मीलने मोक्षदिङ्गुखीं सम्प्रसारयेत् | विलिखेन्मण्डलं प्राग्वदुन्मीलनमथोक्तवत् २२
Verse 23
अधर्धादूने सधूम्रं स्यात् कृष्णमर्धाधिके भवेत् | विमुञ्चतः कृष्णताम्र कपिलं सकलग्रहे २३
Verse 24
रहस्यमेतद्देवानां न देयं यस्य कस्यचित् | सुपरीक्षितशिष्याय देयं वत्सरवासिने २४