On Planetary Conjunctions
(Chapter 7)
Verse 1
ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ | समागमः शशाङ्केन सूर्येणास्तमनं सह १
Verse 2
शीघ्र मन्दाधिकेऽतीतः संयोगो भविताऽन्यथा | द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् २
Verse 3
प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्यः समागमः | ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः ३
Verse 4
भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः | द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत् ४
Verse 5
लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति | विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ५
Verse 6
समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ | विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते ६
Verse 7
कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः | नतोन्नतं साधयित्वा स्वकाल्लग्नवशाट् तयोः ७
Verse 8
विषुवच्छाययाऽभ्यस्ताद् विक्षेपाद् द्वादशोद्धृतात् | फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम् ८
Verse 9
लब्धं प्राच्यामृणं सौम्याद्विक्षेपात्पश्चिमे धनम् | दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षयः ६
Verse 10
सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः | विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः १०
Verse 11
नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने | शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम् ११
Verse 12
तात्कालिकौ पुनः कार्यों विक्षेपौ च ततस्तयोः | दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् १२
Verse 13
कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः | विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता १३
Verse 14
त्रिचतुःकर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः | स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः १४
Verse 15
छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् | ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदृश्यते १५
Verse 16
पञ्चहस्तोच्छ्रितौ शङ्क यथादिग्भ्रमसंस्थितौ | ग्रहान्तरेण विक्षिप्तावधो हस्तनिखातगौ १६
Verse 17
छायाकर्णौ ततो दद्याच्छायाग्राच्छ्ङ्कुमूर्धगौ | छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् १७
Verse 18
स्वशङ्कुमूर्धगौ व्योग्नि ग्रहौ दृक्तुल्यतामितौ | उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते १८
Verse 19
युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् | अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः १६
Verse 20
समागमोंऽशादधिके भवतश्चेद्बलान्वितौ | अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तिमान् २०
Verse 21
रुक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः | उदक्स्थो दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली २१
Verse 22
आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः | स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ २२
Verse 23
उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी | शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम् २३
Verse 24
भावाभावाय लोकानां कल्पनेयं प्रदर्शिता | स्वमार्गगाः प्रयान्त्येते दूरमन्योऽन्यमाश्रिताः २४