The Yoga of Fixed Stars
(Chapter 8)
Verse 1
प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः | भवन्त्यतीतधिष्ण्यानां योगलिप्तायुता ध्रुवाः १
Verse 2
अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः | अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा २
Verse 3
कृतेषवो युगरसाः शून्यबाणा वियद्रसाः | खवेदाः सागरनगा गजागाः सागरर्तवः ३
Verse 4
मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम् | आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः ४
Verse 5
त्रिचतुष्पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु | स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः ५
Verse 6
रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् | दिङ्गासविषयाः सौम्ये याम्ये पञ्च दिशो नव ६
Verse 7
सौम्ये रसाः खं याम्येऽगाः सौम्ये खार्कास्त्रयोदश | दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ७
Verse 8
याम्येऽध्यर्धत्रिककृता नव सार्धशरेषवः | उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशदेव हि ८
Verse 9
दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे | भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम् ६
Verse 10
अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः | विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः १०
Verse 11
विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् | हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ ११
Verse 12
अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ | गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् १२
Verse 13
वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात् | विक्षेपोऽभ्यधिको भिन्द्याद्रोहिण्याः शकटं तु सः १३
Verse 14
ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत् | ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च १४
Verse 15
एष्यो हीने ग्रहे योगो ध्रुवकादधिके गतः | विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः १५
Verse 16
फाल्गुन्योर्भाद्रपदयोस्तथैवाषढयोर्द्वयोः | विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता १६
Verse 17
पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता | हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा १७
Verse 18
ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा | भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा १८
Verse 19
रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि | यथा प्रत्यवशेषाणां स्थूला स्याद् योगतारका १६
Verse 20
पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः | प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः २०
Verse 21
अपांवत्सस्तु चित्राया उत्तरेंऽशैस्तु पञ्चभिः | बृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे २१