On Rising and Setting
(Chapter 9)
Verse 1
अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते | दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम् १
Verse 2
सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्कजाः | ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा २
Verse 3
ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः | व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः ३
Verse 4
सूर्यास्तकालिकौ पश्चात् प्राच्यामुदयकालिकौ | दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु ४
Verse 5
ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः | प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः ५
Verse 6
एकादशामरेज्यस्य तिथिसंख्याऽर्कजस्य च | अस्तांशा भूमिपुत्रस्य दश सप्ताऽधिकास्ततः ६
Verse 7
पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्गहत्त्या | प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भूगोः ७
Verse 8
एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः | वक्री शीघ्रगतिश्चार्कात् करोत्यस्तमयोदयौ ८
Verse 9
एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः | भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ६
Verse 10
तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः | दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः १०
Verse 11
तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते | स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः ११
Verse 12
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः | अभिजिद् ब्रह्महृदयं त्रयोदशभिरंशकैः १२
Verse 13
हस्तश्रवणफाल्गुन्यः श्रविष्ठा रोहिणी मघाः | चतुर्दशांशकैर्दृश्या विशाखाऽश्विनिदैवतम् १३
Verse 14
कृत्तिकामैत्रमूलानि सार्प रौद्रर्क्षमेव च | दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा १४
Verse 15
भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकांशकैः | शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु १५
Verse 16
अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः | विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्याऽदृश्यताऽथ वा १६
Verse 17
प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत् | गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि १७
Verse 18
अभिजिद् ब्रह्महृदयं स्वातीवैष्णववासवाः | अहिर्बुध्यमुदक्स्थत्वान्न लुप्यन्तेऽर्करश्मिभिः १८