Verse 1
अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम्। परिव्राजकाः पश्चिमलिङ्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः । अमृतकल्लोलनदी। अक्षयं निरञ्जनम्। नि:संशयः ऋषिः । निर्वाणो देवता। निष्कुलप्रवृत्तिः । निष्केवलज्ञानम्॥ ||१||
atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ | paramahaṃsaḥ so'ham | parivrājakāḥ paścimaliṅgāḥ | manmathakṣetrapālāḥ | gaganasiddhāntaḥ | amṛtakallolanadī | akṣayaṃ nirañjanam | niḥsaṃśayaḥ ṛṣiḥ | nirvāṇo devatā | niṣkulapravṛttiḥ | niṣkevalajñānam ||1||
Verse 2
ऊर्ध्वाम्नायः ।निरालम्बपीठः। संयोगदीक्षा।वियोगोपदेशः । दीक्षासंतोषपावनं च। द्वाद-शादित्यावलोकनम्।विवेकरक्षा।करुणैव केलिः।आनन्दमाला।एकान्तगुहायां मुक्तासनसु-खगोष्ठी । अकल्पितभिक्षाशी। हंसाचारः। सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ॥ ||२||
ūrdhvāmnāyaḥ | nirālambapīṭhaḥ | saṃyogadīkṣā | viyogopadeśaḥ | dīkṣāsaṃtoṣapāvanaṃ ca | dvāda-śādityāvalokanaṃ | vivekarakṣā | karuṇaiva keliḥ | ānandamālā | ekāntaguhāyāṃ muktāsanasukha-goṣṭhī | akalpitabhikṣāśī | haṃsācāraḥ | sarvabhūtāntarvartī haṃsa iti pratipādanam || 2 ||
Verse 3
धैर्यकन्था। उदासीनकौपीनम्। विचारदण्डः। ब्रह्मावलोकयोगपट्टः। श्रियां पादुका। परेच्छाचरणम्। कुण्डलिनीबन्धः। परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च। खेचरीमुद्रा च। परमानन्दी। निर्गुणगुणत्रयम्। विवेकलभ्यम्। मनोवागगोचरम्। अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम्। तथा देहादिसंघातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम्। विष्णुविध्यादिशताभिधानलक्ष्यम्। अङ्कुशो मार्गः । शून्यं न संकेतः । परमेश्वरसत्ता।सत्यसिद्ध-योगो मठः। अमरपदं न तत्स्वरूपम्। आदिब्रह्मस्वसंवित्। अजपा गायत्री । विकारदण्डो ध्येयः ॥ ||३||
Verse 4
मनोनिरोधिनी कन्था। योगेन सदानन्दस्वरूपदर्शनम्। आनन्दभिक्षाशी ।महाश्मशाने-ऽप्यानन्दवने वासः । एकान्तस्थानम्। आनन्दमठम्।उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः। निर्मलगात्रम्। निरालम्बपीठम्। अमृतकल्लोलानन्दक्रिया। पाण्डरगगनमहासिद्धान्तः । शमदमा-दिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । परावरसंयोगः । तारकोपदेशः। अद्वैतसदानन्दो देवता ।। ||४||
manonirodhinī kanthā | yogena sadānandasvarūpadarśanam | ānandabhikṣāśī | mahāśmaśāne-'pyānandavane vāsaḥ | ekāntasthānam | ānandamaṭham | unmanyavasthā | śāradā ceṣṭā | unmanī gatiḥ | nirmalagātram | nirālambapīṭham | amṛtakallolānandakriyā | pāṇḍaragaganamahāsiddhāntaḥ | śamadama-didivyśaktyācaraṇe kṣetrapātrapāṭutā | parāvara-saṃyogaḥ | tārakopadeśaḥ | advaitasadānando devatā || 4 ||
Verse 5
नियमः स्वान्तरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः । परावरैक्यरसास्वादनम्। अनियामकत्वनिर्मलशक्तिः । स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसंपुटितप्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलभावाभावदहनम्।बिभ्रत्याकाशाधारम्।शिवं तुरीयं यज्ञोपवीतम्। तन्मया शिखा। चिन्मयं चोत्सृष्टिरण्डम् संततोक्षिकमण्डलम्।कर्मनिर्मूलनं कथा । मायाममताहंका-रदहनम्। श्मशाने अनाहताङ्गी।निस्त्रेगुण्यस्वरूपानुसन्धानं समयं भ्रान्तिहननम्।कामादिवृत्ति-दहनम्। काठिन्यदृढकौपीनम्।चिराजिनवासः। अनाहतमन्त्रं अत्र्किययैव जुष्टम्। स्वेच्छाचार-स्वस्वभावो मोक्षः । परं ब्रह्म प्लववदाचरणम्। ब्रह्मचर्यशान्तिसंग्रहणम्। ब्रह्मचर्याश्रमेऽधीत्य वानप्रस्थाश्रमेऽधीत्य स सर्वसंविन्यासं संन्यासम्। अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसंदेहनाशनम्॥ ||५||
Verse 6
एतन्निर्वाणदर्शनं शिष्यं पुत्रं विना न देयमित्युपनिषत् ॥ ||६||
etannirvāṇadarśanaṃ śiṣyaṃ putraṃ vinā na deyamityupaniṣat || 6 ||